logo

|

Home >

Scripture >

scripture >

Marathi

शम्भुस्तोत्रम - shambhu stotra

shambhu stotra

शम्भुस्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shambhu stotra 
.. शम्भुस्तोत्रम ..

नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद\-
गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत .
भूयो भूय इहानुभूय सुतरां कष्टानि नष्टो.अस्म्यहं
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. १ ..

बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः
तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः .
लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः
सो.अहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे .. २ ..

तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनी\-
सक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः .
कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ३ ..

वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः
श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयो.अनाश्रयः .
लालोच्च्हिष्टपुरीषमूत्रसलिलक्लिन्नो.अस्मि दीनो.अस्म्यहं
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ४ ..

ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा
पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः .
नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव संतर्पिता
पापिष्ठेन मया सदाशिव विभो शंभो दयाम्भोनिधे .. ५ ..

संध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं
त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम .
त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता
भोगासक्तिमता मया शिव विभो शंभो दयाम्भोनिधे .. ६ ..

संध्याध्यानजपादिकर्मकरणे शक्तो.अस्मि नैव प्रभो
दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे .
नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ७ ..

कुम्भीपाकधुरंधरादिषु महाबीजादिषु प्रोद्धतं
घोरं नारकदुःखमीषदपि वा सोढुं न शक्तो.अस्म्यहम .
तस्मात त्वां शरणं व्रजामि सततं जानामि न त्वां विना
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ८ ..

माता वापि पिता सुतो.अपि न हितो भ्रात्रादयो बान्धवाः
सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न के.अपि क्षमाः .
दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शंकर
त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे .. ९ ..

.. शंभुस्तोत्रं संपूर्णम ..

Related Content

जम्बुनाताष्टकम - Jambhunatashtakam

Saivaism - A Study

shambhustavah

Studies In Saiva Siddhanta

शंभुस्तवः - Shambhustavah