logo

|

Home >

Scripture >

scripture >

Marathi

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) - shri shiva sahasranama stotra from lingapurana

shri shiva sahasranAma stotra from lingapurANa

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत)

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections
  • This stotra is also available in  devanAgari PDF
    shri shiva sahasranAma stotra from lingapurANa 
    शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत)
    
    	ॐ 
    
         ऋषय ऊचुः \-
    कथं देवेन वै सूत देवदेवान्महेश्वरात .
    सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना .. १..
    
         सूत उवाच \-
    देवानामसुरेन्द्राणामभवच्च सुदारुणः .
    सर्वेषामेव भूतानां विनाशकरणो महान .. २..
    
    ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः .
    प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः .. ३..
    
    पराजितास्तदा देवा देवदेवेश्वरं हरिम .
    प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः .. ४..
    
    तान समीश्याथ भगवान्देवदेवेश्वरो हरिः .
    प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत .. ५..
    
    वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः .
    समागताः ससंतापा वक्तुमर्हथ सुव्रताः .. ६..
    
    तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः .
    प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे .. ७..
    
    भगवन्देवदेवेश विष्णो जिष्णो जनार्दन .
    दानवैः पीडिताः सर्वे वयं शरणमागताः .. ८..
    
    त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम .
    त्वमेव परमात्मा हि त्वं पिता जगतामपि .. ९..
    
    त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन .
    हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन .. १०..
    
    दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः .
    कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः .. ११..
    
    वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः .
    सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः .. १२..
    
    अवध्या वरलाभात्ते सर्वे वारिजलोचन .
    सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम .. १३..
    
    कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो .
    दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ..१४..
    
    पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा .
    रथाङ्गं सुशितं घोरं तेन तान हन्तुमर्हसि .. १५..
    
    तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि .
    ततो निशम्य तेषां वै वचनं वारिजेशणः .. १६..
    
    वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम .
         श्रीविष्णुरुवाच \-
    भोभो देवा महादेवं सर्वैर्देवैः सनातनैः .. १७..
    
    सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम .
    देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा .. १८..
    
    लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान .
    सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान .. १९..
    
    सबान्धवान्शणादेव युष्मान संतारयाम्यहम .
         सूत उवाच \-
    एवमुक्त्वा सुरश्रेष्ठान सुरश्रेष्ठमनुस्मरन .. २०..
    
    सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम .
    लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे .. २१..
    
    मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा .
    त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः .. २२..
    
    स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम .
    तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च .. २३..
    
    देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम .
    पूजयामास च शिवं प्रणवाद्यं नमोन्तकम .. २४..
    
    देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम .
    प्रतिनाम सपद्मेन पूजयामास शङ्करम .. २५..
    
    अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः .
    स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम .. २६..
    
    तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम .
         श्री विष्णुरुवाच \-
    भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः .. २७..
    
    अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः .
    ईश्वरः स्थाणुरीशानः सहस्राशः सहस्रपात .. २८..
    
    वरीयान वरदो वन्द्यः शङ्करः परमेश्वरः .
    गङ्गाधरः शूलधरः परार्थैकप्रयोजनः .. २९..
    
    सर्वघ्य़ः सर्वदेवादिगिरिधन्वा जटाधरः .
    चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः .. ३०..
    
    वेदान्तसारसन्दोहः कपाली नीललोहितः .
    ध्यानाधारो.अपरिच्छेद्यो गौरीभर्ता गणेश्वरः .. ३१..
    
    अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः .
    घ्य़ानगम्यो दृढप्रघ्य़ो देवदेवस्त्रिलोचनः .. ३२..
    
    वामदेवो महादेवः पाण्डुः परिदृढो दृढः .
    विश्वरूपो विरूपाक्शो वागीशः शुचिरन्तरः .. ३३..
    
    सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः .
    ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः .. ३४..
    
    तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी .
    कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः .. ३५..
    
    उन्मत्तवेषश्चक्शुष्योदुर्वासाः स्मरशासनः .
    दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः .. ३६..
    
    अनादिमध्यनिधनो गिरिशो गिरिबान्धवः .
    कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः .. ३७..
    
    सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी .
    विशालाक्शो मृगव्याधः सुरेशः सूर्यतापनः .. ३८..
    
    धर्मकर्माक्शमः क्शेत्रं भगवान भगनेत्रभित .
    उग्रः पशुपतिस्तार्क्श्यप्रियभक्तः प्रियंवदः .. ३९..
    
    दाता दयाकरो दक्शः कपर्दी कामशासनः .
    श्मशाननिलयः सूक्श्मः श्मशानस्थो महेश्वरः .. ४०..
    
    लोककर्ता भूतपतिर्महाकर्ता महौषधी .
    उत्तरो गोपतिर्गोप्ता घ्य़ानगम्यः पुरातनः .. ४१..
    
    नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी .
    सोमपो.अमृतपः सोमो महानीतिर्महामतिः .. ४२..
    
    अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः .
    लोककारो वेदकारः सूत्रकारः सनातनः .. ४३..
    
    महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः .
    पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा .. ४४..
    
    त्रिधामा सौभगः शर्वः सर्वघ्य़ः सर्वगोचरः .
    ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः .. ४५..
    
    शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः .
    गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः .. ४६..
    
    विजितात्मा विधेयात्मा भूतवाहनसारथिः .
    सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः .. ४७..
    
    कामदेवः कामपालो भस्मोद्धूलितविग्रः .
    भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः .. ४८..
    
    समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः .
    चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः .. ४९..
    
    दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः .
    अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः .. ५०..
    
    शुभाङ्गो लोकसारङ्गो जगदीशो.अमृताशनः .
    भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः .. ५१..
    
    हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः .
    महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः .. ५२..
    
    व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः .
    अमृताङ्गो.अमृतवपुः पञ्चयघ्य़ः प्रभञ्जनः .. ५३..
    
    पञ्चविंशतितत्त्वघ्य़ः पारिजातः परावरः .
    सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः .. ५४..
    
    वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः .
    आश्रमः क्शपणः क्शामो घ्य़ानवानचलाचलः .. ५५..
    
    प्रमाणभूतो दुर्घ्य़ेयः सुपर्णो वायुवाहनः .
    धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः .. ५६..
    
    अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः .
    अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः .. ५७..
    
    वीतरागो विनीतात्मा तपस्वी भूतभावनः .
    उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः .. ५८..
    
    कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः .
    तपस्वी तारको धीमान प्रधानप्रभुरव्ययः .. ५९..
    
    लोकपालो.अन्तर्हितात्मा कल्यादिः कमलेक्शणः .
    वेदशास्त्रार्थतत्त्वघ्य़ो नियमो नियमाश्रयः .. ६०..
    
    चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः .
    भक्तिगम्यः परं ब्रह्म मृगबाणार्पणो.अनघः .. ६१..
    
    अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः .
    सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः .. ६२..
    
    महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः .
    अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः .. ६३..
    
    संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः .
    अजः सर्वेश्वरः स्निग्धो महारेता महाबलः .. ६४..
    
    योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः .
    वसुर्वसुमनाः सत्यः सर्वपापहरो हरः .. ६५..
    
    अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान .
    कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः .. ६६..
    
    भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः .
    अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः .. ६७..
    
    कालयोगी महानादो महोत्साहो महाबलः .
    महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः .. ६८..
    
    निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः .
    अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः .. ६९..
    
    बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः .
    ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः .. ७०..
    
    नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः .
    बुद्धः स्पष्टाक्शरो मन्त्रः सन्मानः सारसम्प्लवः .. ७१..
    
    युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः .
    इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः .. ७२..
    
    अपांनिधिरधिष्ठानं विजयो जयकालवित .
    प्रतिष्ठितः प्रमाणघ्य़ो हिरण्यकवचो हरिः .. ७३..
    
    विरोचनः सुरगणो विद्येशो विबुधाश्रयः .
    बालरूपो बलोन्माथी विवर्तो गहनो गुरुः .. ७४..
    
    करणं कारणं कर्ता सर्वबन्धविमोचनः .
    विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः .. ७५..
    
    व्यवसायो व्यवस्थानः स्थानदो जगदादिजः .
    दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः .. ७६..
    
    वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट .
    वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः .. ७७..
    
    आघ्य़ाधारस्त्रिशूली च शिपिविष्टः शिवालयः .
    वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः .. ७८..
    
    अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः .
    मघवान्कौशिको गोमान विश्रामः सर्वशासनः .. ७९..
    
    ललाटाक्शो विश्वदेहः सारः संसारचक्रभृत .
    अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी .. ८०..
    
    परमार्थः परमयः शम्बरो व्याघ्रको.अनलः .
    रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः .. ८१..
    
    रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः .
    युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः .. ८२..
    
    कैलासपतिकामारिः सविता रविलोचनः .
    विद्वत्तमो वीतभयो विश्वहर्ता.अनिवारितः .. ८३..
    
    नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः .
    दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः .. ८४..
    
    उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो.अभयः .
    अनादिर्भूर्भुवो लक्श्मीः किरीटित्रिदशाधिपः .. ८५..
    
    विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः .
    जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः .. ८६..
    
    विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः .
    प्रणवः सप्तधाचारो महाकायो महाधनुः .. ८७..
    
    जन्माधिपो महादेवः सकलागमपारगः .
    तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः .. ८८..
    
    ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः .
    यघ्य़ो यघ्य़पतिर्यज्वा यघ्य़ान्तो.अमोघविक्रमः .. ८९..
    
    महेन्द्रो दुर्भरः सेनी यघ्य़ाङ्गो यघ्य़वाहनः .
    पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः .. ९०..
    
    आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक .
    गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः .. ९१..
    
    शिशुर्गिरिरतः सम्राट सुषेणः सुरशत्रुहा .
    अमोघो.अरिष्टमथनो मुकुन्दो विगतज्वरः .. ९२..
    
    स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः .
    पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः .. ९३..
    
    घ्य़ानस्कन्धो महाघ्य़ानी निरुत्पत्तिरुपप्लवः .
    भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः .. ९४..
    
    उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः .
    नक्शत्रमाली राकेशः साधिष्ठानः षडाश्रयः .. ९५..
    
    पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः .
    हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः .. ९६..
    
    विष्णुर्ग्रहपतिः कृष्णः समर्थो.अनर्थनाशनः .
    अधर्मशत्रुरक्शय्यः पुरुहूतः पुरुष्टुतः .. ९७..
    
    ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः .
    जगद्धितैषिसुगतः कुमारः कुशलागमः .. ९८..
    
    हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः .
    अरोगो नियमाध्यक्शो विश्वामित्रो द्विजोत्तमः .. ९९..
    
    बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः .
    मातामहो मातरिश्वा नभस्वान्नागहारधृक .. १००..
    
    पुलस्त्यः पुलहो.अगस्त्यो जातूकर्ण्यः पराशरः .
    निरावरणधर्मघ्य़ो विरिञ्चो विष्टरश्रवाः .. १०१..
    
    आत्मभूरनिरुद्धो.अत्रि घ्य़ानमूर्तिर्महायशाः .
    लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः .. १०२..
    
    व्यालकल्पो महाकल्पो महावृक्शः कलाधरः .
    अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः .. १०३..
    
    आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः .
    असंसृष्टो.अतिथिः शक्रः प्रमाथी पापनाशनः .. १०४..
    
    वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः .
    जर्यो जराधिशमनो लोहितश्च तनूनपात .. १०५..
    
    पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा .
    निदाघस्तपनो मेघः पक्शः परपुरञ्जयः .. १०६..
    
    मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः .
    वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः .. १०७..
    
    अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः .
    पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः .. १०८..
    
    मनो बुद्धिरहंकारः क्शेत्रघ्य़ः क्शेत्रपालकः .
    तेजोनिधिर्घ्य़ाननिधिर्विपाको विघ्नकारकः .. १०९..
    
    अधरो.अनुत्तरोघ्य़ेयो ज्येष्ठो निःश्रेयसालयः .
    शैलो नगस्तनुर्दोहो दानवारिररिन्दमः .. ११०..
    
    चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत .
    चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः .. १११..
    
    आम्नायो.अथ समाम्नायस्तीर्थदेवशिवालयः .
    बहुरूपो महारूपः सर्वरूपश्चराचरः .. ११२..
    
    न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः .
    सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः .. ११३..
    
    मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः .
    पिङ्गलाक्शो.अथ हर्यक्शो नीलग्रीवो निरामयः .. ११४..
    
    सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत .
    पद्मासनः परंज्योतिः परावरफलप्रदः .. ११५..
    
    पद्मगर्भो महागर्भो विश्वगर्भो विचक्शणः .
    परावरघ्य़ो बीजेशः सुमुखः सुमहास्वनः .. ११६..
    
    देवासुरगुरुर्देवो देवासुरनमस्कृतः .
    देवासुरमहामात्रो देवासुरमहाश्रयः .. ११७..
    
    देवादिदेवो देवर्षिर्देवासुरवरप्रदः .
    देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः .. ११८..
    
    सर्वदेवमयो.अचिन्त्यो देवतात्मात्मसम्भवः .
    ईड्यो.अनीशः सुरव्याघ्रो देवसिंहो दिवाकरः .. ११९..
    
    विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः .
    शिवघ्य़ानरतः श्रीमान शिखिश्रीपर्वतप्रियः .. १२०..
    
    जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः .
    ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः .. १२१..
    
    नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः .
    लिङ्गाध्यक्शः सुराध्यक्शो युगाध्यक्शो युगावहः .. १२२..
    
    स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः .
    बीजाध्यक्शो बीजकर्ता धनकृद्धर्मवर्धनः .. १२३..
    
    दम्भो.अदम्भो महादम्भः सर्वभूतमहेश्वरः .
    श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः .. १२४..
    
    लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः .
    अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः .. १२५..
    
    वीतदोषो.अक्शयगुणो दक्शारिः पूषदन्तहृत .
    धूर्जटिः खण्डपरशुः सकलो निष्कलो.अनघः .. १२६..
    
    आधारः सकलाधारः पाण्डुराभो मृडो नटः .
    पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः .. १२७..
    
    सामगेयः प्रियकरः पुण्यकीर्तिरनामयः .
    मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः .. १२८..
    
    जीवितान्तकरो नित्यो वसुरेता वसुप्रियः .
    सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः .. १२९..
    
    मानी मान्यो महाकालः सद्भूतिः सत्परायणः .
    चन्द्रसञ्जीवनः शास्ता लोकगूढो.अमराधिपः .. १३०..
    
    लोकबन्धुर्लोकनाथः कृतघ्य़ः कृतिभूषणः .
    अनपाय्यक्शरः कान्तः सर्वशास्त्रभृतां वरः .. १३१..
    
    तेजोमयो द्युतिधरो लोकमायो.अग्रणीरणुः .
    शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः .. १३२..
    
    ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः .
    तुम्बवीणी महाकायो विशोकः शोकनाशनः .. १३३..
    
    त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्शजः .
    अव्यक्तलक्शणो.अव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः .. १३४..
    
    वरशीलो वरतुलो मानो मानधनो मयः .
    ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः .. १३५..
    
    वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः .
    कैलासशिखरावासी सर्वावासी सतां गतिः .. १३६..
    
    हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता .
    भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः .. १३७..
    
    संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः .
    देवप्रियो देवनाथो देवघ्य़ो देवचिन्तकः .. १३८..
    
    विषमाक्शः कलाध्यक्शो वृषाङ्को वृषवर्धनः .
    निर्मदो निरहंकारो निर्मोहो निरुपद्रवः .. १३९..
    
    दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः .
    सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्शिणः .. १४०..
    
    भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः .
    अर्थो.अनर्थो महाकोशः परकार्यैकपण्डितः .. १४१..
    
    निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः .
    सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः .. १४२..
    
    अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत .
    सुप्रीतः सुमुखः सूक्श्मः सुकरो दक्शिणो.अनलः .. १४३..
    
    स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः .
    अपराजितः सर्वसहो विदग्धः सर्ववाहनः .. १४४..
    
    अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः .
    वराहशृङ्गधृग्वायुर्बलवानेकनायकः .. १४५..
    
    श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक .
    श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः .. १४६..
    
    भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः .
    अकायो भक्तकायस्थः कालघ्य़ानी कलावपुः .. १४७..
    
    सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः .
    परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः .. १४८..
    
    अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा .
    स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः .. १४९..
    
    शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली .
    मेखली कवची खड्गी मायी संसारसारथिः .. १५०..
    
    अमृत्युः सर्वदृक सिंहस्तेजोराशिर्महामणिः .
    असंख्येयो.अप्रमेयात्मा वीर्यवान्कार्यकोविदः .. १५१..
    
    वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः .
    अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः .. १५२..
    
    सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः .
    कालभक्शः कलङ्कारिः कङ्कणीकृतवासुकिः .. १५३..
    
    महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः .
    द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः .. १५४..
    
    निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः .
    एकज्योतिर्निरातङ्को नरो नारायणप्रियः .. १५५..
    
    निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः .
    स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः .. १५६..
    
    निरवद्यपदोपायो विद्याराशिरविक्रमः .
    प्रशान्तबुद्धिरक्शुद्रः क्शुद्रहा नित्यसुन्दरः .. १५७..
    
    धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः .
    परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः .. १५८..
    
    रसो रसघ्य़ः सर्वघ्य़ः सर्वसत्त्वावलम्बनः .
         सूत उवाच \-
    एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम .. १५९..
    
    स्नापयामास च विभुः पूजयामास पङ्कजैः .
    परीक्शार्थं हरेः पूजाकमलेषु महेश्वरः .. १६०..
    
    गोपयामासकमलं तदैकं भुवनेश्वरः .
    हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन .. १६१..
    
    घ्य़ात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम .
    पूजयामास भावेन नाम्ना तेन जगद्गुरुम .. १६२..
    
    ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम .
    तस्मादवतताराशु मण्डलात्पावकस्य च .. १६३..
    
    कोटिभास्करसंकाशं जटामुकुटमण्डितम .
    ज्वालामालावृतं दिव्यं तीक्श्णदंष्ट्रं भयङ्करम .. १६४..
    
    शूलटङ्कगदाचक्रकुन्तपाशधरं हरम .
    वरदाभयहस्तं च दीपिचर्मोत्तरीयकम .. १६५..
    
    इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम .
    हृष्टो नमश्चकाराशु देवदेवं जनार्दनः .. १६६..
    
    दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम .
    चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा .. १६७..
    
    ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम .
    अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले .. १६८..
    
    तदा प्राह महादेवः प्रहसन्निव शङ्करः .
    सम्प्रेक्श्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम .. १६९..
    
    घ्य़ातं मयेदमधुना देवकार्यं जनार्दन .
    सुदर्शनाख्यं चक्रं च ददामि तव शोभनम .. १७०..
    
    यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम .
    हिताय तव यत्नेन तव भावाय सुव्रत .. १७१..
    
    शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम .
    शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम ..१७२..
    
    शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम .
    योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः .. १७३..
    
    देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम .
    किमायुधेन कार्यं वै योद्धुं देवारिसूदन .. १७४..
    
    क्शमा युधि न कार्यं वै योद्धुं देवारिसूदन .
    अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे .. १७५..
    
    अकालिके त्वधर्मे च अनर्थेवारिसूदन .
    एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम .. १७६..
    
    नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम .
    तदाप्रभृति तं प्राहुः पद्माक्शमिति सुव्रतम .. १७७..
    
    दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः .
    पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह .. १७८..
    
    वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान .
    भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम .. १७९..
    
    इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम .
    त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम .. १८०..
    
    नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो .
    तच्छ्रुत्वा वचनं तस्य दयावान सुतरां भवः .. १८१..
    
    पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः .
    प्राह चैवं महादेवः परमात्मानमच्युतम .. १८२..
    
    मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः .
    भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम .. १८३..
    
    यदा सती दक्शपुत्री विनिन्द्येव सुलोचना .
    मातरं पितरं दक्शं भविष्यति सुरेश्वरी .. १८४..
    
    दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत .
    भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम .. १८५..
    
    नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम .
    मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि .. १८६..
    
    मां दिव्येन च भावेन तदा प्रभृति शङ्करम .
    द्रक्श्यसे च प्रसन्नेन मित्रभूतमिवात्मना .. १८७..
    
    इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः .
    जनार्दनोपि भगवान्देवानामपि सन्निधौ .. १८८..
    
    अयाचत महादेवं ब्रह्माणं मुनिभिः समम .
    मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम .. १८९..
    
    यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान .
    प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात .. १९०..
    
    अश्वमेधसहस्रेण फलं भवति तस्य वै .
    घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ..१९१..
    
    नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम .
    सोपि यघ्य़सहस्रस्य फलं लब्ध्वा सुरेश्वरैः .. १९२..
    
    पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै .
    तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम .. १९३..
    
    जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम .
    तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः .. १९४..
    
    जपीन्नाम्नां सहस्रं च स याति परमां गतिम .. १९५..
    
    .. इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः
    पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ..

Related Content

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

ਮੇਧਾਦਕ੍ਸ਼ਿਣਾਮੂਰ੍ਤਿ ਸਹਸ੍ਰਨਾਮਸ੍ਤੋਤ੍ਰ ਏਵਂ ਨਾਮਾਵਲੀ -Medhadakshin

Medha Dakshinamurti sahasranaama stotra and naamaavali

Medhadakshinamurtisahasranaamastotra and naamaavali-மேதா தக்

Shiva Sahasra NaamaavaLi