logo

|

Home >

Scripture >

scripture >

Marathi

शिवसहस्रनाम - shiva sahasranamam

Shiva sahasranamam

शिवसहस्रनाम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shiva sahasranAmam शिवसहस्रनाम    .. ॐ .. स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः . सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः .. १.. जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः . हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः .. २.. प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः . श्मशानचारी भगवान.ह खचरो गोचरो.अर्दनः .. ३.. अभिवाद्यो महाकर्मा तपस्वी भूत भावनः . उन्मत्तवेश्हप्रच्च्हन्नः सर्वलोकप्रजापतिः .. ४.. महारूपो महाकायो वृश्हरूपो महायशाः . महा.अ.अत्मा सर्वभूतश्च विरूपो वामनो मनुः .. ५.. लोकपालो.अन्तर्हितात्मा प्रसादो हयगर्दभिः . पवित्रश्च महांश्चैव नियमो नियमाश्रयः .. ६.. सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः . सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः .. ७.. चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः . अद्रिरद{}र्यालयः कर्ता मृगबाणार्पणो.अनघः .. ८.. महातपा घोर तपा.अदीनो दीनसाधकः . संवत्सरकरो मन्त्रः प्रमाणं परमं तपः .. ९.. योगी योज्यो महाबीजो महारेता महातपाः . सुवर्णरेताः सर्वघ्य़ः सुबीजो वृश्हवाहनः .. १०.. दशबाहुस्त्वनिमिश्हो नीलकण्ठ उमापतिः . विश्वरूपः स्वयं श्रेश्ह्ठो बलवीरो.अबलोगणः .. ११.. गणकर्ता गणपतिर्दिग्वासाः काम एव च . पवित्रं परमं मन्त्रः सर्वभाव करो हरः .. १२.. कमण्डलुधरो धन्वी बाणहस्तः कपालवान.ह . अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान.ह .. १३.. स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः . उश्ह्णिश्ही च सुवक्त्रश्चोदग्रो विनतस्तथा .. १४.. दीर्घश्च हरिकेशश्च सुतीर्थः कृश्ह्ण एव च . सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः .. १५.. अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि . उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः .. १६.. त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः . अहश्चरो.अथ नक्तं च तिग्ममन्युः सुवर्चसः .. १७.. गजहा दैत्यहा लोको लोकधाता गुणाकरः . सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः .. १८.. कालयोगी महानादः सर्ववासश्चतुश्ह्पथः . निशाचरः प्रेतचारी भूतचारी महेश्वरः .. १९.. बहुभूतो बहुधनः सर्वाधारो.अमितो गतिः . नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः .. २०.. घोरो महातपाः पाशो नित्यो गिरि चरो नभः . सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः .. २१.. अमर्श्हणो मर्श्हणात्मा यघ्य़हा कामनाशनः . दक्शयघ्य़ापहारी च सुसहो मध्यमस्तथा .. २२.. तेजो.अपहारी बलहा मुदितो.अर्थो.अजितो वरः . गंभीरघोश्हो गंभीरो गंभीर बलवाहनः .. २३.. न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः . सुदीक्श्णदशनश्चैव महाकायो महाननः .. २४.. विश्ह्वक्सेनो हरिर्यघ्य़ः संयुगापीडवाहनः . तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवित.ह .. २५.. विश्ह्णुप्रसादितो यघ्य़ः समुद्रो वडवामुखः . हुताशनसहायश्च प्रशान्तात्मा हुताशनः .. २६.. उग्रतेजा महातेजा जयो विजयकालवित.ह . ज्योतिश्हामयनं सिद्धिः संधिर्विग्रह एव च .. २७.. शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली . वैणवी पणवी ताली कालः कालकटंकटः .. २८.. नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयो.अगमः . प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः .. २९.. विमोचनः सुरगणो हिरण्यकवचोद्भवः . मेढ्रजो बलचारी च महाचारी स्तुतस्तथा .. ३०.. सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः . व्यालरूपो बिलावासी हेममाली तरंगवित.ह .. ३१.. त्रिदशस्त्रिकालधृक.ह कर्म सर्वबन्धविमोचनः . बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः .. ३२.. सांख्यप्रसादो सुर्वासाः सर्वसाधुनिश्हेवितः . प्रस्कन्दनो विभागश्चातुल्यो यघ्य़भागवित.ह .. ३३.. सर्वावासः सर्वचारी दुर्वासा वासवो.अमरः . हेमो हेमकरो यघ्य़ः सर्वधारी धरोत्तमः .. ३४.. लोहिताक्शो महा.अक्शश्च विजयाक्शो विशारदः . संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः .. ३५.. मुख्यो.अमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः . सर्वकामप्रसादश्च सुबलो बलरूपधृक.ह .. ३६.. सर्वकामवरश्चैव सर्वदः सर्वतोमुखः . आकाशनिधिरूपश्च निपाती उरगः खगः .. ३७.. रौद्ररूपों.अशुरादित्यो वसुरश्मिः सुवर्चसी . वसुवेगो महावेगो मनोवेगो निशाचरः .. ३८.. सर्वावासी श्रियावासी उपदेशकरो हरः . मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः .. ३९.. पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः . उन्मादो मदनाकारो अर्थार्थकर रोमशः .. ४०.. वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः . सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः .. ४१.. भिक्शुश्च भिक्शुरूपश्च विश्हाणी मृदुरव्ययः . महासेनो विशाखश्च श्हश्ह्टिभागो गवांपतिः .. ४२.. वज्रहस्तश्च विश्ह्कंभी चमूस्तंभनैव च . ऋतुरृतु करः कालो मधुर्मधुकरो.अचलः .. ४३.. वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः . ब्रह्मचारी लोकचारी सर्वचारी सुचारवित.ह .. ४४.. ईशान ईश्वरः कालो निशाचारी पिनाकधृक.ह . निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः .. ४५.. नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः . भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः .. ४६.. चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च . लिंगाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः .. ४७.. बीजाध्यक्शो बीजकर्ता.अध्यात्मानुगतो बलः . इतिहास करः कल्पो गौतमो.अथ जलेश्वरः .. ४८.. दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः . लोक कर्ता पशु पतिर्महाकर्ता महौश्हधिः .. ४९.. अक्शरं परमं ब्रह्म बलवान.ह शक्र एव च . नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः .. ५०.. बहुप्रसादः स्वपनो दर्पणो.अथ त्वमित्रजित.ह . वेदकारः सूत्रकारो विद्वान.ह समरमर्दनः .. ५१.. महामेघनिवासी च महाघोरो वशीकरः . अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः .. ५२.. वृश्हणः शंकरो नित्यो वर्चस्वी धूमकेतनः . नीलस्तथा.अंगलुब्धश्च शोभनो निरवग्रहः .. ५३.. स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः . उत्संगश्च महांगश्च महागर्भः परो युवा .. ५४.. कृश्ह्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम.ह . महापादो महाहस्तो महाकायो महायशाः .. ५५.. महामूर्धा महामात्रो महानेत्रो दिगालयः . महादन्तो महाकर्णो महामेढ्रो महाहनुः .. ५६.. महानासो महाकंबुर्महाग्रीवः श्मशानधृक.ह . महावक्शा महोरस्को अन्तरात्मा मृगालयः .. ५७.. लंबनो लंबितोश्ह्ठश्च महामायः पयोनिधिः . महादन्तो महादंश्ह्ट्रो महाजिह्वो महामुखः .. ५८.. महानखो महारोमा महाकेशो महाजटः . असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः .. ५९.. स्नेहनो.अस्नेहनश्चैवाजितश्च महामुनिः . वृक्शाकारो वृक्श केतुरनलो वायुवाहनः .. ६०.. मण्डली मेरुधामा च देवदानवदर्पहा . अथर्वशीर्श्हः सामास्य ऋक.ह्सहस्रामितेक्शणः .. ६१.. यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा . अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः .. ६२.. उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः . नाभिर्नन्दिकरो भाव्यः पुश्ह्करस्थपतिः स्थिरः .. ६३.. द्वादशस्त्रासनश्चाद्यो यघ्य़ो यघ्य़समाहितः . नक्तं कलिश्च कालश्च मकरः कालपूजितः .. ६४.. सगणो गण कारश्च भूत भावन सारथिः . भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः .. ६५.. अगणश्चैव लोपश्च महा.अ.अत्मा सर्वपूजितः . शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिश्हेवितः .. ६६.. आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः . शाखो विशाखस्ताम्रोश्ह्ठो ह्यमुजालः सुनिश्चयः .. ६७.. कपिलो.अकपिलः शूरायुश्चैव परो.अपरः . गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्य़ेयः सुसारथिः .. ६८.. परश्वधायुधो देवार्थ कारी सुबान्धवः . तुंबवीणी महाकोपोर्ध्वरेता जलेशयः .. ६९.. उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः . सर्वांगरूपो मायावी सुहृदो ह्यनिलो.अनलः .. ७०.. बन्धनो बन्धकर्ता च सुबन्धनविमोचनः . सयघ्य़ारिः सकामारिः महादंश्ह्ट्रो महा.अ.अयुधः .. ७१.. बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरो.अधनः . अमरेशो महादेवो विश्वदेवः सुरारिहा .. ७२.. अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा . अजैकपाच्च कापाली त्रिशंकुरजितः शिवः .. ७३.. धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा . धाता शक्रश्च विश्ह्णुश्च मित्रस्त्वश्ह्टा ध्रुवो धरः .. ७४.. प्रभावः सर्वगो वायुरर्यमा सविता रविः . उदग्रश्च विधाता च मान्धाता भूत भावनः .. ७५.. रतितीर्थश्च वाग्मी च सर्वकामगुणावहः . पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः .. ७६.. बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी . कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः .. ७७.. सर्वाशयो दर्भशायी सर्वेश्हां प्राणिनांपतिः . देवदेवः मुखो.असक्तः सदसत.ह सर्वरत्नवित.ह .. ७८.. कैलास शिखरावासी हिमवद.ह गिरिसंश्रयः . कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः .. ७९.. वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्च्हदः . सारग्रीवो महाजत्रु रलोलश्च महौश्हधः .. ८०.. सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः . सिंहनादः सिंहदंश्ह्ट्रः सिंहगः सिंहवाहनः .. ८१.. प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः . सारंगो नवचक्रांगः केतुमाली सभावनः .. ८२.. भूतालयो भूतपतिरहोरात्रमनिन्दितः .. ८३.. वाहिता सर्वभूतानां निलयश्च विभुर्भवः . अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः .. ८४.. धृतिमान.ह मतिमान.ह दक्शः सत्कृतश्च युगाधिपः . गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः .. ८५.. हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम.ह . प्रतिश्ह्ठायी महाहर्श्हो जितकामो जितेन्द्रियः .. ८६.. गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः . महागीतो महानृत्तोह्यप्सरोगणसेवितः .. ८७.. महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः . आवेदनीय आवेशः सर्वगन्धसुखावहः .. ८८.. तोरणस्तारणो वायुः परिधावति चैकतः . संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः .. ८९.. नित्यात्मसहायश्च देवासुरपतिः पतिः . युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः .. ९०.. आश्हाढश्च सुश्हाडश्च ध्रुवो हरि हणो हरः . वपुरावर्तमानेभ्यो वसुश्रेश्ह्ठो महापथः .. ९१.. शिरोहारी विमर्शश्च सर्वलक्शण भूश्हितः . अक्शश्च रथ योगी च सर्वयोगी महाबलः .. ९२.. समाम्नायो.असमाम्नायस्तीर्थदेवो महारथः . निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः .. ९३.. रत्न प्रभूतो रक्तांगो महा.अर्णवनिपानवित.ह . मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः .. ९४.. आरोहणो निरोहश्च शलहारी महातपाः . सेनाकल्पो महाकल्पो युगायुग करो हरिः .. ९५.. युगरूपो महारूपो पवनो गहनो नगः . न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः .. ९६.. बहुमालो महामालः सुमालो बहुलोचनः . विस्तारो लवणः कूपः कुसुमः सफलोदयः .. ९७.. वृश्हभो वृश्हभांकांगो मणि बिल्वो जटाधरः . इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः .. ९८.. निवेदनः सुधाजातः सुगन्धारो महाधनुः . गन्धमाली च भगवान.ह उत्थानः सर्वकर्मणाम.ह .. ९९.. मन्थानो बहुलो बाहुः सकलः सर्वलोचनः . तरस्ताली करस्ताली ऊर्ध्व संहननो वहः .. १००.. च्हत्रं सुच्च्हत्रो विख्यातः सर्वलोकाश्रयो महान.ह . मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः .. १०१.. हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपात.ह . सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः .. १०२.. सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत.ह . पवित्रं त्रिमधुर्मन्त्रः कनिश्ह्ठः कृश्ह्णपिंगलः .. १०३.. ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक.ह . पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः .. १०४.. गभस्तिर्ब्रह्मकृद.ह ब्रह्मा ब्रह्मविद.ह ब्राह्मणो गतिः . अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः .. १०५.. ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः . चन्दनी पद्ममाला.अग{}र्यः सुरभ्युत्तरणो नरः .. १०६.. कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक.ह . उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः .. १०७.. वरो वराहो वरदो वरेशः सुमहास्वनः . महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः .. १०८.. प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक.ह . सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः .. १०९.. चराचरात्मा सूक्श्मात्मा सुवृश्हो गो वृश्हेश्वरः . साध्यर्श्हिर्वसुरादित्यो विवस्वान.ह सविता.अमृतः .. ११०.. व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः . ऋतुः संवत्सरो मासः पक्शः संख्या समापनः .. १११.. कलाकाश्ह्ठा लवोमात्रा मुहूर्तो.अहः क्शपाः क्शणाः . विश्वक्शेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः .. ११२.. सदसद.ह व्यक्तमव्यक्तं पिता माता पितामहः . स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविश्ह्टपम.ह .. ११३.. निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः . देवासुरविनिर्माता देवासुरपरायणः .. ११४.. देवासुरगुरुर्देवो देवासुरनमस्कृतः . देवासुरमहामात्रो देवासुरगणाश्रयः .. ११५.. देवासुरगणाध्यक्शो देवासुरगणाग्रणीः . देवातिदेवो देवर्श्हिर्देवासुरवरप्रदः .. ११६.. देवासुरेश्वरोदेवो देवासुरमहेश्वरः . सर्वदेवमयो.अचिन्त्यो देवता.अ.अत्मा.अ.अत्मसंभवः .. ११७.. उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजो.अंबरः . ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्श्हभः .. ११८.. विबुधाग्रवरः श्रेश्ह्ठः सर्वदेवोत्तमोत्तमः . प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः .. ११९.. गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः . शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः .. १२०.. अभिरामः सुरगणो विरामः सर्वसाधनः . ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः .. १२१.. स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः . सिद्धार्थः सर्वभूतार्थो.अचिन्त्यः सत्यव्रतः शुचिः .. १२२.. व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः . विमुक्तो मुक्ततेजाश्च श्रीमान.ह श्रीवर्धनो जगत.ह .. १२३..        श्रीमान.ह श्रीवर्धनो जगत.ह ॐ नम इति..

shivasahasranaama Taken from Mahabharata 13th parva; Partly proofread from Ramakrishna Mission Book

Related Content

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) - shri shiva sah

ਇਤਂ ਸ਼ਿਵਸ੍ਤੋਤ੍ਰਮ - Kalki kritam shivastotra

ਮੇਧਾਦਕ੍ਸ਼ਿਣਾਮੂਰ੍ਤਿ ਸਹਸ੍ਰਨਾਮਸ੍ਤੋਤ੍ਰ ਏਵਂ ਨਾਮਾਵਲੀ -Medhadakshin

കല്കി കൃതം ശിവസ്തോത്രമ് - kalki krutam shivastotra