शिवपञ्चाक्षर स्तोत्रम
Shivapanchakshara Stotram
शिवपञ्चाक्षर स्तोत्रम
नागेन्द्रहाराय त्रिलोचनाय
भस्मांगरागाय महेश्वराय ।
नित्याय शुद्धाय दिगंबराय
तस्मै नकाराय नमः शिवाय ॥*१॥
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दार मुख्यबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय ॥२॥
शिवाय गौरीवदनाब्जवृन्द सूर्याय
दक्षाध्वर नाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय ॥३॥
वसिष्ठकुंभोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।
चद्रार्क वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥४॥
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगंबराय तस्मै यकाराय नमः शिवाय ॥५॥
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥६॥
इति श्रीमच्छङ्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं संपूर्णम ॥
(*१-अस्याग्रॆ ’आसमाप्तं’ इत्यादिप्रक्षिप्तश्लॊकाः क्वचिद्द्रुश्यन्तॆ ।)