logo

|

Home >

Scripture >

scripture >

Marathi

शिवस्तुतिः (लङ्केश्वर विरचिता) - Shivastutih (Langeshvara Virachitaa)

Shivastutih 
(Langeshvara Virachitaa)


शिवस्तुतिः
(लङ्केश्वर विरचिता)

गले कलितकालिमः  प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । 
उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १॥ 

वृषोपरि परिस्फुरद्धवळधाम धाम श्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत । 
क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥ 

उदित्वरविलोचनत्रयविसुत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम । 
षिकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम ॥३॥ 

विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः । 
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥४॥

भवद्भवनदेहलीनिकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिमिर्मघवदादिमिर्भूयते व्रजेम  
भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथामहे ॥५॥

त्वदर्चनपरायणप्रमथकन्यकालुंठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे । 
अलं तटवितर्दिकाशयितसिद्धसीमन्तीनीप्रकीर्णसुमनोमनोरमणमेरुणा मेरुणा॥६॥ 

न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथाऽस्तु मे न च मनोरथातिथ्यभूः । 
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥७॥ 

विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसी करप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी निमज्जनफलप्रदा मम नु हन्त भूयादियम ॥८॥ 

बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविभृश्यमानां भजे ॥९॥

त्वदीयसुरवाहिनीविमलवारिधाराबलज्जटागहनगाहिनी मतिरियं मम क्रामतु । 
उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥१०॥ 

इति लङ्केश्वरविरचिता शिवस्तुतिः संपूर्णा॥ 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram