logo

|

Home >

Scripture >

scripture >

Marathi

श्री शिवाश्टकं - Shivashtakam

Shivashtakam

अथ श्री शिवाश्टकं

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI shivAShTakaM .. अथ श्री शिवाश्टकं .. प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम.ह । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम.ह । जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूश्हधरंतम.ह । अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥ तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम.ह । गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥ गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम.ह । परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम.ह । बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥ शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम.ह । अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम.ह । श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥ स्तवं यः प्रभाते नरः शूलपाणे पठेत.ह सर्वदा भर्गभावानुरक्तः । स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्शं प्रयाति ॥ ९॥ .. इति शिवाश्ह्टकम.ह ..

Related Content

ਸਦਾਸ਼ਿਵਾਸ਼੍ਟਕਮ - Sadashivashtakam

સદાશિવાષ્ટકમ - Sadashivashtakam

Agastyashtakam

Sadashiva Ashtakam

Sadashivashtakam-ஸதாஷிவாஷ்டகம்