logo

|

Home >

Scripture >

scripture >

Marathi

Om symbolश्री शिवाश्टकं - ShivashtakamOm symbol

Shivashtakam

अथ श्री शिवाश्टकं

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI shivAShTakaM .. अथ श्री शिवाश्टकं .. प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम.ह । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम.ह । जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूश्हधरंतम.ह । अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥ तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम.ह । गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥ गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम.ह । परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम.ह । बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥ शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम.ह । अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम.ह । श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥ स्तवं यः प्रभाते नरः शूलपाणे पठेत.ह सर्वदा भर्गभावानुरक्तः । स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्शं प्रयाति ॥ ९॥ .. इति शिवाश्ह्टकम.ह ..

Related Content

সদাশিৱাষ্টকম - Sadashivashtakam

শিৱস্তুতিঃ (লঙ্কেশ্ৱর ৱিরচিতা) - Shivastutih (Langeshvara

Sadashiva Ashtakam

Agastyashtakam

Shri Shiva Stuti