logo

|

Home >

Scripture >

scripture >

Marathi

शिव सुप्रभातम - Shiva-suprabhatam

Shiva-suprabhatam

शिव सुप्रभातम

Please send your corrections

shiva suprabhaatam
शिव सुप्रभातम

स्नात्वा जले शीतलितान्तरङ्गाः
    स्पृष्ट्वा च पुष्पाणि सुवासिताङ्गाः .
वीजन्ति प्रभातमरुत्तरङ्गाः
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. १..

नन्दीश्वरांभानिनदं मनोघ्य़ं
    वर्षाब्दगर्ज्जामिव मन्यमानः .
केकी कुमारस्य करोति नृत्यं
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. २..

लोकैकबन्धुं प्रसविष्यतीति
    प्राचीं समर्च्याञ्जलिबद्धहस्तैः .
स्तोतुं भवन्तं मुनयः प्रवृत्ताः
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. ३..

ब्रह्मादि-देवोदित-वेद-मन्त्रैः
    दिग्पाल-भूषा-मणिनां णिनादैः .
कोलाहलो द्वारि च संप्रभूतः
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. ४..

आभाति शैलोपरि लम्बमाना
    मेघालिरेषा गजचर्मनीला .
नीतेव शाटी हरिणा त्वदर्थं
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. ५..

प्राच्या समन्तात.ह प्रविकीर्यमाणैः
    लिप्तो .अद्य लोकः सितकान्तिपुञ्जैः .
धत्ते त्वदीयां रुचिराङ्गशोभां
    उत्तिष्ठ शम्भो तव सुप्रभातम.ह .. ६..

Related Content

Shri Vishvanatha Suprabhatam

श्री विश्वनाथ सुप्रभातम - shri-vishvanatha-suprabhatam

श्री केदीश नाथ सुप्रभातम् Kedishanatha Suprabhatam

श्री तारकेश्वर सुप्रभातम् Sri Tarakeshwara Suprabhatam

śrī kedīśa nātha suprabhātam Kedishanatha Suprabhatam