logo

|

Home >

Scripture >

scripture >

Marathi

कल्किकृतं शिवस्तोत्रम - Shivastotra by kalki avatar

Shivastotra by kalki avatar

कल्किकृतं शिवस्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

Shivastotra by kalki avatar 
कल्किकृतं शिवस्तोत्रम

श्रीगणेशाय नमः .

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम .
त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम .. १..

योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम .
जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि .. २..

श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च .
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको.अस्तमेति .. ३..

यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः .
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि .. ४..

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति .
ब्रह्माद्यंशे यो.अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि .. ५..

यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन .
शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये .. ६..

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता .
मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि .. ७..

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम.

Related Content

ਇਤਂ ਸ਼ਿਵਸ੍ਤੋਤ੍ਰਮ - Kalki kritam shivastotra

കല്കി കൃതം ശിവസ്തോത്രമ് - kalki krutam shivastotra

Abhayankaram Shivaraksha Stotram

aparaadhabhanjanastotram

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)