logo

|

Home >

Scripture >

scripture >

Marathi

महादेवाष्टकम - Mahadeva Ashtakam

 

Mahadeva Ashtakam


शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं 
महेशानं शंभुं सकलसुरसंसेव्यचरणम । 
गिरीशं गौरीशं भवभयहरं निष्कळमजं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥१॥ 

 

सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय-
मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम । 
त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥२॥

 

चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं 
धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम । 
करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥३॥ 

 

सदोत्साहं गङ्गाधरमचलमानन्दकरणं 
पुरारातिं भातं रतिपतिहरं दीप्तवदनम । 
जटाजूटैर्जुष्टं रसमुखगणेशानपितरं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥४॥ 

 

वसन्तं कैलासे सुरमुनिसभायां हि नितरां 
ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम । 
महेशानी साक्षात्सनकमुनिदेवर्षिसहिता 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥५॥ 

 

शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे 
गले कालं व्यालं जलधिगरळं कण्ठविवरे । 
ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥६॥

 

सुराणां दैत्यानां बहुलमनुजानां बहुविधं 
तपःकुर्वाणानां झटिति फलदातारमखिलम । 
सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥७॥ 

 

वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां 
वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम । 
अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं 
महादेवं वन्दे प्रणतजनतापोपशमनम ॥८॥ 

 

इदं स्तोत्रं शंभोर्दुरितदलनं धान्यधनदं हृदि 
ध्यात्वा शंभुं तदनु रघुनाथेन रचितम । 
नरः सायंप्रातः पठति नियतं तस्य विपदः 
क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥९॥ 

 

इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम ॥

Related Content

ਸਦਾਸ਼ਿਵਾਸ਼੍ਟਕਮ - Sadashivashtakam

સદાશિવાષ્ટકમ - Sadashivashtakam

Bilvaashtakam

Mahadeva Ashtakam

Sadashiva Ashtakam