logo

|

Home >

Scripture >

scripture >

Marathi

शिव अष्टोत्तर शतनाम स्तोत्रम - Shiva Ashtottara Shatanama Stotram

Shiva Ashtottara Shatanama Stotram


शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः । 
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥ 

 

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । 
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥ 

 

भवः शर्वस्त्रिलोकेशः शितिकण्टः शिवाप्रियः । 
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥२॥ 

 

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । 
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥ 

 

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्की वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥ 

 

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥ 

 

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥ 

 

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥ 

 

कृत्तिवासाः पुरारातिर्भगवान प्रमथाधिपः । 
मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥ 

 

व्योमकेशो महासेनजनकश्चारुविक्रमः । 
रुद्रो भूतपतिः स्ताणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥ 

 

अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः । 
शाश्वतः खण्डपरशू रजःपाशविमोचनः ॥११॥ 

 

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । 
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥ 

 

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥ 

 

इति श्रीशिवाष्टोत्तरशतनामावळिस्तोत्रं संपूर्णम ॥

Related Content

Shiva Ashtottara Shatanama Stotram in Romanized script

शिव अष्टोत्तर शतनाम स्तोत्रम् - Shiva Ashtottara Shatanama S

শিৱ অষ্টোত্তর শতনাম স্তোত্রম - Shiva Ashtottara Shatanama St

ਸ਼ਿਵ ਅਸ਼੍ਟੋੱਤਰ ਸ਼ਤਨਾਮ ਸ੍ਤੋਤ੍ਰਮ - Shiva Ashtottara Shatanama Sto

શિવ અષ્ટોત્તર શતનામ સ્તોત્રમ - Shiva Ashtottara Shatanama St