logo

|

Home >

Scripture >

scripture >

Marathi

कल्किकृतं शिवस्तोत्रम  - Kalkikrutam Shiva Stotram

 

Kalkikrutam Shiva Stotram


गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम ॥ 
त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम ॥१॥ 

 

योगाधीशं कामनाशं कराळं गङ्गासङ्गक्लिन्नमूर्धानमीशम ॥ 
जटाजूटाटोपरिक्षिप्तभावं महाकाळं चन्द्रभालं नमामि ॥२॥ 

 

श्मशानस्थं भूतवेताळसङ्गं नानाशस्त्रैः खड्गशूलादिभिश्च ॥ 
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥३॥

 

यो भूतादिः पञ्च भूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः ॥ 
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥४॥ 

 

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति ॥ 
ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥५॥ 

 

यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ॥ 
शीतांशुः खे तारकासङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥६॥ 

 

यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ॥ 
मेरुर्मध्ये भुवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥७॥ 

 

इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम ॥

Related Content

Kalkikrutam Shiva Stotram

Raavanakrutam shivataandava stotram

Shiva Tandava Stotram

कल्किकृतं शिवस्तोत्रम्  - Kalkikrutam Shiva Stotram

प्रदोष स्तोत्रम - Pradosha Stotram