logo

|

Home >

Scripture >

scripture >

Marathi

अर्धनारीश्वर स्तोत्रम - Ardhanaarishvara Stotram

Ardhanaarishvara Stotram


मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । 
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥१॥

 

एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम । 
यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥२॥ 

 

यस्योपवीतगुण एव फणावऋतैकवक्षोरुहः कुचपटीयति वामभागे । 
तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे नमस्या ॥३॥ 

 

स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्कुलिभस्मरेणुः । 
स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥४॥ 

 

इत्यर्धनारीश्वरस्तोत्रं संपूर्णम ॥

Related Content