logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीमदृष्यशृङ्गेश्वर स्तुतिः - Srimadrushyashrungeshvara Stutih

Srimadrushyashrungeshvara Stutih


कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम् । 
नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥१॥ 

 

प्राणायामैर्ध्यानैर्नष्टञ्चित्तं विधाय मुनिवर्याः । 
यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्कञ्चित् ॥२॥ 

 

वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम् । 
खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥३॥ 

 

शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम् । 
शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम् ॥४॥ 

 

इति श्रीमदृष्यशृङ्गेश्वरस्तुतिः संपूर्णा ॥

Related Content

श्रीमदृष्यशृङ्गेश्वर स्तुतिः - Srimadrushyashrungeshvara Stu