logo

|

Home >

Scripture >

scripture >

Sanskrit

भवभञ्जन स्तोत्रम् - Bhavabhanjana Stotram

Bhavabhanjana Stotram


रदच्छदाधः कृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः । 
कैलासश्रृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥१॥ 

 

राकाशशाङ्कप्रतिमानकन्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग । 
शैलेन्द्रजालिङ्गितवामभागी धुनोतु शीघ्रं भवबन्धमीशः ॥२॥ 

 

य इदं परमं स्तोत्रं भवभञ्जननामकम् । 
संपठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥३॥ 

 

भवदुःखविनिर्मुक्तो जायते सुरपूजितः । 
न पुनर्लभते जन्म भुवि शंभुप्रसादतः ॥४॥ 

 

इति भवभञ्जन स्तोत्रं संपूर्णम् ॥
 

Related Content

Abhayankaram Shivaraksha Stotram

About the Saints in English

aparaadhabhanjanastotram

Articles from Siddhanta Deepika in English

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)