logo

|

Home >

Scripture >

scripture >

Sanskrit

अभयङ्करं शिवरक्षास्तोत्रम् - Abhayankaram Shivarakshaastotram

Abhayankaram Shivarakshaastotram

 

अभयङ्करं शिवरक्ष स्तोत्रम् - PDF


अभयङ्करं शिवरक्षास्तोत्रम् ।

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ 

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥ 

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥ 

गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥३॥ 

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥४॥ 

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥ 

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥ 

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥ 

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥८॥ 

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥९॥ 

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिव नामाभिरक्षणात् ॥१०॥ 

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्रयम् ॥११॥ 

इमां नारायणः स्वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ॥१२॥ 

इति श्रीयाज्ञवल्क्यप्रोक्तमभयङ्करं शिवरक्षास्तोत्रं संपूर्णम् ॥

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana