शिवषडक्षरस्तोत्रम्

Shivashadakshara Stotram


शिवषडक्षर स्तोत्रम्

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । 
कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ 

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः । 
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ 

महादेवं महात्मानं महाध्यान परायणम् । 
महापापहरं देवं मकाराय नमो नमः ॥३॥ 

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । 
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥ 

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् । 
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥ 

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः । 
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥ 

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ । 
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥ 

इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम् ॥ 


Back to Sanskrit Page
Back to Hindu Scriptures and Stotras Main Page
Back to Shaivam Home Page