उपमन्युकृतं शिवस्तोत्रम

Upamanyukrutam Shivastotram


उपमन्युकृतं शिवस्तोत्रम

जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन । 
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥१॥ 

सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम ॥२॥ 

महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे । 
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ 

न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥४॥

त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा । 
मधुरं हि पयः स्वभावतो ननु कीद्रुक्सितशर्करान्वितम ॥५॥ 

सविषोऽप्यमृतायते भवाच्छवमुण्डाभरणोऽपि पावनः । 
भव एव भवान्तकः सतां समद्रुष्टिर्विषमोक्षणोऽपि सन ॥६॥ 

अपि शूलधरो निरामयो द्रुढवैराग्यरतोऽपि रागवान । 
अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥ 

वितरत्यभिवाञ्छितं द्रुशा परिद्रुष्टः किल कल्पपादपः । 
हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान ॥८॥ 

सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः । 
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥ 

सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम । 
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥ 

मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः । 
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥

प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम । 
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत ॥१२॥ 

बहवो भवताऽनुकंपिताः किमितीशान न माऽनुकंपसे । 
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥

अशुचिं यदि माऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते । 
उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक ॥१४॥ 

क्व द्दशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः । 
क्व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शरणागतोऽस्मि ते ॥१५॥ 

विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा । 
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥ 

शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे । 
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥ 

शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । 
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम ॥१८॥ 

उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः । 
अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥१९॥ 

उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ । 
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥२०॥ 

इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम ॥

Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page
Back to Shaivam Home Page