शिवभुजङ्ग प्रयात स्तोत्रम

Shivabhujanga Prayaata Stotram


शिवभुजङ्ग प्रयात स्तोत्रम ।   

गलद्दानगण्डं मिलद्भृङ्गखण्डं चलच्चारुशुण्डं जगत्राणशौण्डं । 
लसद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम॥१॥ 

अनाद्यन्तमाद्यं परन्तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम । 
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ॥२॥

स्वशक्त्यादि शक्त्य्न्तसिंहासनस्थं मनोहारिसर्वांगरत्नादिभूषम ।
जटाहींदुगंगास्थिशश्यर्कमौलिं परं शक्तिमित्रं नुमः पञ्चवक्त्रम ॥३॥

शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्मभिर्हृन्मुखैः षड्भिरंगैः ।
अनौपम्यषट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा ॥४॥ 

प्रवाळप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहः श्याममर्धम ।
गुणस्यूतमेकं वपुश्चेकमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतुम ॥५॥ 

स्वसेवासमायात देवासुरेन्द्रा नमन्मौलिमन्दारमालाभिषिक्तम । 
नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम ॥६॥

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन । 
महः स्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥७॥ 

महादेव देवेश देवाधिदेव स्मरारे पुरारे यमारे हरेति । 
ब्रुवाणः स्मरिष्वामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥८॥

विरूपाक्ष विश्वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबक त्वम । 
प्रसीद स्मर त्राहि पश्याव पुण्य क्षमस्वाप्नुहि त्र्यक्ष पाहि त्वमस्मान ॥९॥ 

त्वदन्यः शरण्यः प्रपन्न्स्य नेति प्रसीद स्मरन्नव हन्यास्तु दैन्यम । 
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयाळो दयां सन्निधेहि ॥१०॥ 

अयं दानकालस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यन्न याचे । 
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात ॥११॥

पशुं वेत्सि चेन्मां त्वमेवाधिरूढः कळंकीति वा मूर्ध्नि धत्से त्वमेव । 
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गकृताः शर्व सर्वेऽपि धन्याः ॥१२॥ 

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । 
तदा हि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥१३॥ 

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे । 
त्रसन्तं सुतं त्रातुमग्रे मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम ॥१४॥ 

अकण्ठे कळङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात । 
अमौलौ शशाङ्कादवामे कळत्रादहं देवमन्यं न मन्ये न मन्ये ॥१५॥ 

शिरोद्दष्टिहृद्रोगशूलप्रमेहज्वरार्शोजरायक्ष्महिक्काविषार्तान । 
त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ 

दरिद्रोऽस्म्यभद्रोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि भिन्नोऽस्मि चाहम । 
भवान्प्राणिनामन्तरात्मासि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम ॥१६॥ 

त्वदक्ष्णोः कटाक्षः पतेत त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणीते । 
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षामभूषाविशेषैः ॥१७॥ 

भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्ने  मखघ्ने । 
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायाम्बिकायै नमस्यम्बकाय ॥१८॥ 

भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यद्दष्ट्यानुगं माम । 
शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥१९॥ 

यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टाघणाकारनादः । 
वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम ॥२०॥ 

यदा दारुणा भाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । 
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो॥२१॥ 

यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृता व्यक्तवाणिः । 
तदा जह्रुकन्याजलालङ्कऋतं ते जटामण्डलं मन्मनोमन्दिरं स्यात ॥२२॥ 

यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीद्दशीयं दशेति । 
तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३॥ 

यदा पश्यतां मामसौ वेत्ति नास्मानयं श्वास एवेति वाचो भवेयुः । 
तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम ॥२४॥ 

यदा यातनादेह सन्देहवाही भवेदात्मदेहे न मोहो महान्मे । 
तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥२५॥ 

यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम । 
तदा तं निरुब्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥२६॥ 

यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरम । 
तदा मामहो नाथ तस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥२७॥ 

यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात । 
तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेताद्दशं मे ॥२८॥

इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि । 
कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥२९॥ 

अमर्यादमेवाहमाऽऽबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । 
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ॥३०॥ 

जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथदेव । 
भवन्तं विना मे गतिर्नैव शंभो दयाळो न जागर्ति किं वा दया ते ॥ ३१॥ 

शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ।  
महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥३२॥ 

त्वमत्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ । 
बहुक्लेशभाजं पदाम्भोजपोते भवाब्धौ निमग्नं नयस्वाद्यपारम ॥ ३३॥ 

अनुद्यल्ललाटाक्षिवह्निप्ररोहैरवामस्फुरच्चारुवामोरुशोभैः । 
अनङ्गभ्रमद्भोगिभूषाविशेषरचन्द्रार्घचूडैरलं दैवतैर्नः ॥ ३४॥ 

अकण्ठे कलङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात । 
अमौलौ शशाङ्कादवामे कळत्रादहं देवमन्यं न मन्ये न मन्ये ॥३५॥ 

महादेव शंभो गिरीश त्रिशूलिंस्त्वयीदं समस्तं विभातीति यस्मात । 
शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहम ॥३६॥ 

यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन यदेकान्तमन्ते । 
स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहम ॥३७॥ 

किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । 
तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने ॥ ३८॥ 

अनेन स्तवेनादरादम्बिकेशं परां भक्तिमासाद्य यं ये नमन्ति । 
मृतौ निर्भयास्ते जनास्तं भजन्ते हृदम्भोजमध्ये सदासीनमीशम ॥ ३९॥ 

भुजङ्गप्रियाकल्प शम्भो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लृप्तम । 
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्काराचार्य 
विरचितं शिवभुजङ्ग प्रयातस्तोत्रं संपूर्णम ॥


Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page
Back to Shaivam Home Page