शिवभक्ति कल्प लतिका स्तोत्रम

Shiva Bhakti Kalpa Latika Stotram


शिवभक्तिकल्पलतिकास्तोत्रम

श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं 
श्रीमत्क्व शङ्कर भवच्चरणारविन्दम । 
क्वाहं तदेतदुपसेवितुमीहमानो  
हा हन्त कस्य न भवाम्युपहासपात्रम ॥१॥ 

अद्राक्षमङ्घ्रिकमलं न तवेति यन्मे
दुःखं यदप्यनवमृश्य दुरात्मतां स्वाम । 
पादांबुजं तव दिदृक्ष इतीदृगागः 
पातोऽनले प्रतिकृतिर्गिरिशैतयोर्मे ॥२॥ 

दौरात्म्यतो मम भवत्पददर्शनेच्छा 
मन्तुस्तथापि तव सा भजनात्मिकेति । 
स्यादीशितुर्मयि दयैव दयामकार्र्षी-
रश्मादिभिः प्रहृतवत्सु न किं विभो त्वम ॥३॥

दुःखानलोदरनिपातनधूर्वदेषवे-
ष्वर्थाङ्गनासुत मुखेषवनुराग आगः । 
स्यात्ते रुषे तव दयालुतया त्वदान-
त्याद्यैर्विभो तदवधूय बिभर्षि चास्मान ॥४॥ 

ईशान रक्षितुमिमान्यदपेक्षसे त्वं 
नत्यादिकं तदपनेतुमतिप्रसङ्गम । 
किं हीयते तदनुपाधिकृपालुता ते 
संवित्सुखस्य न हि ते प्रियमप्रियं वा ॥५॥ 

अप्याहर प्रहर संहर वाग्वदस्य 
त्रातास्युपात्तममुना मम नाम हीति । 
एवं विभो तनुभृतामवनेऽप्युपाया-
न्वेषी कथं परमकारुणिकोऽसि न त्वम ॥६॥ 

त्राता दयाजलनिधिः स्मृतिमात्रलभ्यः 
क्षन्ताऽऽगसामिति भवद्यशसा हृतात्मा । 
स्वामस्मरन्बत मलीमसतामलज्जो 
भक्तिं भवत्यभिलषामि धिगस्तु यन्माम ॥७॥ 

शर्माप्तिरार्तिविहतिश्च भवत्प्रसादं 
शंभोर्विना न हि नृणां स च नान्तरा याम । 
यस्यां विधिः श्वभुगपि क्षमते समं तां 
त्वद्भक्तिमिच्छतु न कः स्वविनाशभीरुः ॥८॥ 

भक्तिर्विभात्ययि महत्यपरं तु फल्ग्वि-
त्येवं ग्रहो ननु भवत्कृपयैव लभ्यः । 
लब्धस्त्वसौ फलममुष्य लभे न किं वा 
तां हन्त ते तदयशो मम हृद्रुजा च ॥९॥ 

त्वद्भक्त्यसंभवशुचं प्रतिकारशून्या-
मन्तर्वहन्निखिलमीश सुखं च दुःखम । 
उद्बन्धलग्न इव दुःखतयैव मन्ये 
सन्तान्यतीति मयि हन्त कदा दयेथाः ॥१०॥ 

भक्तिं भवत्यविहितां वहतस्तु तद्वि-
शेषोपलंभविरहाहितमस्तु दुःखम । 
तस्याः प्रतीपततिभिर्हतिजं कथं वा 
दुःखं सहे मयि कदेश कृपा भवेत्ते ॥११॥ 

लग्नः कृतान्तवदनेऽस्मि लभे च नाद्या-
प्यच्छां रतिं त्वयि शिवेत्यवसीदतो मे । 
त्वद्विस्मृतिं कुविषयाभिरतिप्रचारै-
स्तन्वन हि मां हसपदं तनुषे ब्रुवे किम ॥१२॥ 

बद्धस्पृहं रुचिरकाञ्चनभूषणादौ 
बालं फलादिभिरिव त्वयि भक्तियोगे। 
आशाभराकुलमहो करुणानिधे मा-
मर्थान्तरैर्हृतधियं कुरुषे किमेवम ॥१३॥ 

तिक्तग्रहोऽधि मधुरं मधुरग्रहोऽधि 
तिक्तं यथा भुजगदष्टतनोस्तथाऽहम । 
त्वय्यस्तरक्तिरितरत्र तु गाढमग्नः 
शोच्योऽश्मनोऽपि हि भवामि किमन्यदीश ॥१४॥ 

त्वत्संस्मृति त्वदभिधानसमीरणादि
संभावनास्पदममी मम सन्तु शोकाः । 
मा सन्तु च त्वदनुषक्तिमुषः प्रहर्षा 
मा त्वत्पुरः स्थितिपुषेश द्रुशाऽनुपश्य ॥१५॥ 

संपातनं ननु सुखेषु निपातनं वा 
दुःखेष्वथान्यदपि वा भवदेकतानम । 
यत्कल्पयेर्ननु धिया शिव तद्विधेहि 
नावैम्यहं मम हितं शरणं गतस्त्वाम ॥१६॥

दुःखं प्रदित्सुरयि मे यदि न प्रदद्या 
दुःखापहं पुरहर त्वयि भक्तियोगम । 
त्वद्भक्त्यलाभपरिचिन्तनसंभवं मे 
दुःखं प्रदेहि तव कः पुनरत्र भारः ॥१७॥ 

भक्तया त्वयीश कति नाश्रुपरीतद्दष्ट्या 
सञ्जातगद्गदगिरोत्पुळकाङ्गयष्ट्या । 
धन्याः पुनन्ति भुवनं मम सा न हीति 
दुःखेऽपि का नु तव दुर्लभता विधित्सा ॥१८॥ 

त्वद्भक्तिरेव तदनवाप्तिशुगप्युदारा 
श्रीः सा च तावक जनाश्रयणे च लभ्या। 
उल्लंघ्य तावकजनान हि तदर्थनाग-
स्त्वय्याः सहस्व तदिदं भगवन्नमस्ते ॥१९॥ 

सेवा त्वदाश्रयवतां प्रणयश्च तेषु 
सिध्येद्दृढो मम यथाशु तथा दयार्द्राम । 
दृष्टिं तवार्पय मयीश दयांबुराशे 
मैवं विभो विमुखता मयि दीनबन्धो ॥२०॥ 

गौरीसखं हिमकरप्रभमंबुदाभं 
श्रीजानि वा शिववपुस्तव तज्जुषो ये ॥ 
ते त्वां श्रिता वहसि मुर्ध्नि तदंघ्रिरेणुं 
तत्सेवनं मम कथं नु दयां विना ते ॥२१॥ 

त्वद्भक्तिकल्पलतिकां कृपयाऽर्पयेश 
मच्चित्तसीम्नि भवदीयकथासुधाभिः । 
तां वर्धय त्वदनुरागफलाढ्यमौलिं 
तन्मूल एव खलु मुक्तिफलं चकास्ति ॥२२॥ 

निःस्वो धनागम इव त्वदुपाश्रितानां 
सन्दर्शने प्रमुदितस्त्वयि सान्द्रहार्दः। 
आलोकयन जगदशेषमिदं भवन्तं 
कार्यस्त्वयेश कृपयाऽहमपास्तखेदः ॥२३॥ 

यो भक्तिकल्पलतिकाभिधमिन्दुमौले-
रेवं स्तवं पठति तस्य तदैव देवः । 
तुष्टः स्वभक्तिमखिलेष्टदुहं ददाति 
यां प्राप्य नारदमुखैरुपयाति साम्यम ॥२४॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमदभिनव- 
नृसिंहभारतीस्वामिविरचितं शिवभक्तिकल्पलतिकास्तोत्रं संपूर्णम ॥


Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page
Back to Shaivam Home Page